संवादशाला इत्युक्ते किम् ? तत्र किं भवति ?
संवादशाला 15-दिनात्मकः संस्कृतसम्भाषणस्य तथा सम्भाषणशिक्षणस्य च प्रगतः प्रशिक्षणकार्यक्रमः। एषा संस्कृतव्याकरणस्य संस्कृतभाषानुप्रयोगस्य च सक्रियताधारिता अध्ययनप्रक्रिया। एतस्य प्रशिक्षणकार्यक्रमस्य विशिष्टाभ्यासः एव साफल्यतायाः हेतुः। प्रायः संवादशालाद्वारा 15000 जनाः लाभान्विताः जाताः।
The above is from Samvadashala | Samskrita Bharati in भारतम्
NOW, we bring the same to the USA with minor tweaks but with similar intent and essence - FIRST Time!
It will be 5-10-15 days (progressive batches during the month of July 2025) at संस्कृतभवनम् of SB USA - पदम्
अस्य प्रशिक्षणकार्यक्रमस्य विशेषताः ?
दूरशिक्षायाः अपेक्षया साक्षात् शिक्षणं प्रभावि भवति। अत्र संस्कृतं संस्कृतमाध्यमेन पाठ्यते। सर्वविधसूचनाः संस्कृतेनैव दीयन्ते। तेन भाषायाः शीघ्रग्रहणम् उपयोगश्च भवति।
Eligibility [TBC] - संस्कृतपूर्वपरिचिताः अत्र भागं ग्रहीतुं शक्नुवन्ति
(Viva/interview maybe planned for higher level)